श्रीविष्णोः षोडश नाम स्तोत्रम्|
श्री गणेशाय नमः | औषधे चिन्तयेद्विष्णू भोजने च जनार्दनम् | शयने पद्मनाभं च विवाहे च प्रजापतिम् ||१ ||
युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् | नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ||२ ||
दुःस्वप्ने स्मर गोविन्दं संकटे मधुसूदनम् | कानने नरसिहं च पावके जलशायिनम् ||३ ||
जलमध्ये वराहं च पर्वते रघुनन्दनम् | गमने वामनं चैव सर्वकार्येषु माधवम् ||४ ||
षोडशैतानि नामानि प्रातरुत्थाय यः पठेत् | सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥५॥
| इति श्रीविष्णोः षोडशनामस्तोत्रं संपूर्णं |
No comments:
Post a Comment